|
|
 |
 |
|
|
७ द्रोणपर्व.jpg)
॥ श्रीः ॥
7.69. अध्यायः 069
Mahabharata - Drona Parva - Chapter Topics
नारदेन सृञ्जयम्प्रति पृथुचरिब्रकथनम्॥ 1 ॥

Mahabharata - Drona Parva - Chapter Text
नारद उवाच। 7-69-0x(4424)(47220)
पुथुं वैन्यं च राजानं मृतं सृञ्जय शुश्रुम।
यमब्यषिञ्चत्सम्मन्त्र्य राजसूये महर्षयः॥ 7-69-1(47221)
अयं नः प्रथयिष्येत सर्वानित्यभवत्पृथुः।
क्षतान्नस्त्रास्यते सर्वानत्येवं क्षत्रियोऽभवत्॥ 7-69-2(47222)
पृथुं वैन्यं प्रजा दृष्ट्वा रक्ताः स्मेति यदब्रुवन्।
ततो राजेति नामास्य अनुरागादजायत॥ 7-69-3(47223)
अकृष्टपच्या पृथिवी आसीद्वैन्यस्य कामधुक्।
सर्वाः समादुघा गावः पुटकेपुटके मधु॥ 7-69-4(47224)
आसन्हिरण्मया वृक्षाः सुखस्पर्शाः सुखावहाः।
तेषां चीरxx संवीताः प्रजास्तेष्वेव शेरते॥ 7-69-5(47225)
फलान्यमृतकल्पानि स्वादूनि च मधूनि च।
तेषामासीत्तदाऽऽहारो निराहाराश्च नाभवन्॥ 7-69-6(47226)
अरोगाः सर्वसिद्धार्था मनुष्या ह्यकुतोभयाः।
न्यवसन्त यथाकामं वृक्षेषु च गुहासु च॥ 7-69-7(47227)
प्रविभागो न राष्ट्राणां पुराणां चाभवत्तदा।
यथासुखं यथाकामं तथैता मुदिताः प्रजाः॥ 7-69-8(47228)
तस्य संस्तम्भिता ह्यापः समुद्रमभियास्यतः।
पर्वताश्च ददुर्मार्गं ध्वजभङ्गश्च नाभवत्॥ 7-69-9(47229)
तं वनस्पतयः शैला देवासुरनरोरगाः।
सप्तर्षयः पुण्यजना गन्धर्वाप्सरसोऽपि च।
पितरश्च सुखासीनमभिगम्येदमब्रुवन्॥ 7-69-10(47230)
सम्राडसि क्षत्रियोऽसि राजा गोप्ता पिताऽसि नः।
देह्यस्मभ्यं महाराज प्रभुः सन्नीप्सितान्वरान्।
यैर्वयं शाश्वतं तृप्ता वर्तयिष्यामहे सुखम्॥ 7-69-11(47231)
`विज्ञापितः प्रजाभिस्तु प्रजानां हितकाम्यया।
धनुर्गृह्य पृषत्कांश्च वसुधामाद्रवद्बली॥ 7-69-12(47232)
ततो वैन्यभयाद्राजन्गौर्भूत्वा प्राद्रवन्मही।
तां पृथुर्धनुरादाय द्रवन्तीमन्वसारयत्॥ 7-69-13(47233)
सा लोकान्ब्रह्मलोकादीन्गत्वा वैन्यभयार्दिता।
सा ददर्शाग्रतो वैन्यं कार्मुकोद्यतपाणिकम्॥ 7-69-14(47234)
ज्वलद्भिर्विशिखैर्बाणैर्दीप्ततेजःसमद्युतिम्।
महायोगं महात्मानं दुर्धर्षममरैरपि॥ 7-69-15(47235)
अलभन्ती परित्राणं वैन्यमेवाभ्यपद्यत।
कृताञ्जलिपुटा राजन्पूज्यं लोकैस्त्रिभिस्तदा॥ 7-69-16(47236)
उवाच चैनं नाधर्म्यं स्त्रीवधं कर्तुमर्हसि।
कथं धारयिता चासि प्रजा राजन्मया विना॥ 7-69-17(47237)
पृथुरुवाच। 7-69-18x(4425)
एकस्यार्थाय यो हन्यादात्मनो वा परस्य वा।
एकं प्राणान्बहून्वापि प्राणिनां नास्ति पातकं॥ 7-69-18(47238)
यस्मिंस्तु निहते भद्रे बहवः सुखमेधते।
तस्मिन्हते त्वधं नास्ति पातकं नोपभुज्यते॥ 7-69-19(47239)
सोऽहं पालनिमित्तं त्वां बधिष्यामि वसुंधरे।
यदि चेद्वचनादद्य न करिष्यसि मे प्रियम्॥ 7-69-20(47240)
त्वां निहत्य तु बाणेन मच्छासनपराङ्मुखीम्।
आत्मानं प्रथयित्वाऽहं प्रजा धारयिता स्वयं॥ 7-69-21(47241)
सुखं वचनमास्थाय मम धर्मभृतां वरे।
स़ञ्जीवय प्रजा नित्यं शक्ता ह्यसि वसुन्धरे॥ 7-69-22(47242)
दुहितृत्वं च मे गच्छ एवमेतन्महाशरम्।
नियच्छेयं त्वदर्थाय उद्यतं घोरदर्शनम्॥ 7-69-23(47243)
भूमिरुवाच। 7-69-24x(4426)
सर्वमेतन्महाराज विधास्यासि परन्तप।
वत्सं त्वं पश्य राजन्वै क्षरेयं येन वत्सला॥ 7-69-24(47244)
समां तु कुरु सर्वज्ञ मां तु धर्मभृतां वर।
यथा विष्यन्दमानं वै क्षीरं सर्वत्र भावये॥ 7-69-25(47245)
नारद उवाच। 7-69-26x(4427)
तत उत्सारयामास शिलाजालानि सर्वशः।
पृथुर्वैन्यस्तदा राजा तेन शैला विवर्धिताः॥ 7-69-26(47246)
न हि पूर्वनिसर्गे वै विषमे वसुधातले।
प्रविभागः पुराणां वा ग्रामाणां वा महीपते॥ 7-69-27(47247)
न सस्यानि न गोरक्ष्यं न कृषिर्न वणिक्पथः।
वैन्यात्प्रभृति राजेन्दर सर्वस्यैतस्य सम्भवः॥ 7-69-28(47248)
यत्रयत्र च साम्यं तु भूमावासीत्किलानघ।
तत्रतत्र प्रजास्तात निवासमभिरोचयन्।
कृच्छ्रेण च महाराज इत्येवमनुशुश्रुम॥ 7-69-29(47249)
तथेत्युक्त्वा पुनर्वैन्यो गृहीत्वाऽऽजगवं धनुः।
शरांश्चाप्रतिमान्घोरांश्चिन्तयित्वाऽब्रवीन्महीम्॥ 7-69-30(47250)
पृथुरुवाच। 7-69-31x(4428)
एह्येहि वसुधे क्षिप्रं क्षरैभ्यः काङ्क्षितं पयः।
मच्छसनातिगां वै त्वां प्रमथिष्याम्यहं शरैः॥ 7-69-31(47251)
नारद उवाच। 7-69-32x(4429)
तथोक्ता साऽत्मनः श्रेयश्चिन्तयित्वाऽब्रवीत्पृथुम्। 7-69-32(47252)
भूमिरुवाच।
वत्सं पात्राणि दोग्धॄंश्च क्षीराणि च समादिश॥ 7-69-32x(4430)
ततो दास्याम्यहं भद्र सर्वं यस्य यथेप्सितम्।
दुहितृत्वे च मां वीर सङ्कल्पयितुमर्हसि॥ 7-69-33(47253)
नारद उवाच।' 7-69-34x(4431)
तथेत्युक्त्वा पृथुः सर्वं विधानमकरोद्वशी।
ततो भूतनिकायास्तां वसुधां दुदुहुस्तदा॥ 7-69-34(47254)
तां वनस्पतयः पूर्वं समुत्तस्थुर्दुधुक्षवः।
साऽतिष्ठद्वत्सला वत्सं दोग्धृपात्राणि चेच्छती॥ 7-69-35(47255)
वत्सोऽभूत्पुष्पितः सालः प्लक्षो दोग्धाऽभवत्तदा।
छिन्नप्ररोहणं दुग्धं पात्रमौदुम्बरं शुभम्॥ 7-69-36(47256)
उदयः पर्वतो वत्सो मेरुर्दोग्धा महागिरिः।
रत्नान्योषधयो दुग्धं पात्रमस्तमयं तथा॥ 7-69-37(47257)
`देवानां वत्स इन्द्रोऽभूत्पात्रं दारुमयं तथा'।
दोग्धा च सविता देवो दुग्धमूर्जस्करं प्रियम्॥ 7-69-38(47258)
असुरा दुदुहुर्मायामयःपात्रे तु तां तदा।
दोग्धा द्विमूर्धा तत्रासीद्वत्सश्चासीद्विरोचनः॥ 7-69-39(47259)
कृषिं च सस्यं च नरा दुदुहुः पृथिवीतले।
स्वायंभुवो मनुर्वत्सस्तेषां दोग्धाऽभवत्पृथुः॥ 7-69-40(47260)
अलाबुपात्रे च तथा विषं दुग्धा वसुन्धरा।
धृतराष्ट्रोऽभवद्दोग्धा तेषां वत्सस्तु तक्षकः॥ 7-69-41(47261)
सप्तर्षिभिर्ब्रह्म दुग्धा तथा चाक्लिष्टकर्मभिः।
दोग्धा बृहस्पतिः पात्रं छन्दो वत्सश्च सोमराट्॥ 7-69-42(47262)
अन्तर्धानं चामपात्रे दुग्धा पुण्यजनैर्विराट्।
दोग्धा वैश्रवणस्तेषां वत्सश्चासीद्वृषध्वजः॥ 7-69-43(47263)
पुण्यगन्धान्पद्मपात्रे गन्धर्वाप्सरसोऽदुहन्।
वत्सश्चित्ररथस्तेषां दोग्धा विश्वरुचिः प्रभुः॥ 7-69-44(47264)
स्वधां रजतपात्रेषु दुदुहुः पितरश्च ताम्।
वत्सो वैवस्वतस्तेषां यमो दोग्धान्तकस्तदा॥ 7-69-45(47265)
एवं निकायैस्तैर्दुग्धा पयोऽभीष्टं हि सा विराट्।
यैर्वर्तयन्ति ते ह्यद्य पात्रैर्वत्सैश्च नित्यशः॥ 7-69-46(47266)
यज्ञैश्च विविधैरिष्ट्वा पृथुर्वैन्यः प्रतापवान्।
सन्तर्पयित्वा भूतानि सर्वैः कामैर्मनःप्रियैः॥ 7-69-47(47267)
हैरण्यानकरोद्राजा ये केचित्पार्थिवा भुवि।
तान्ब्राह्मणेभ्यः प्रायच्छदश्वमेधे महामखे॥ 7-69-48(47268)
स षष्टिं गोसहस्राणि षष्टिं नागशतानि च।
सौवर्णानकरोद्राजा ब्राह्मणेभ्यश्च तान्ददौ॥ 7-69-49(47269)
इमां च पृथिवीं सर्वां मणिरत्नविभूषिताम्।
सौवर्णीमकरोद्राजा ब्राह्मणेभ्यश्च तां ददौ॥ 7-69-50(47270)
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया।
पुत्रात्पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः।
अयज्वानमदक्षिण्यमभि श्वैत्येत्युदाहरत्॥ ॥ 7-69-51(47271)
इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि षोडशराजकीये एकोनसप्ततितमोऽध्यायः॥ 69 ॥
Mahabharata - Drona Parva - Chapter Footnotes
5-69-1 ध्वजभङ्गस्तोरणादिना॥ 5-69-39 द्विमूर्धा शुक्रोऽभूत् इति क.ङ.ड.पाठः॥ 5-69-43 विराट् पृथिवी। वत्सश्चासीत्कुवेरकः इति.पाठः॥ 5-69-44 दोग्धा वसुरपि प्रभुः इति क.ङ.ड.पाठः॥ 5-69-45 वत्सोऽत्र वत्सरस्तेषां क.ङ.पाठः॥ 5-69-46 निवर्तयन्ति ते रुद्रादिष्टे वैन्येन सर्वशः इति क. पाठः। यैर्वर्तयन्ति ते तृप्तादिष्टे वैन्येन सर्वशः इति ङ. पाठः। ये वर्षयन्ति ते पात्रैः वत्सैर्दोग्धैश्च नित्यशः इति ङ. पाठः॥ 5-69-48 पार्थिवाः पृथ्वीसंवन्धिपदार्थाः॥ 5-69-69 एकोनसप्ततितमोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|